Sep 26, 2011

॥ एकान्तदण्डः ॥

कोणान्मृगितस्य सर्वाङ्विवारः ।
गिरिशिखरान्मण्डलाक्षदृष्टिः ।
गृहीतो भासांशुरदर्शगोले ।
तनुया त्वात्मानं पङ्कात्केशेन ।
भूयतेऽधस्पदे सुरपूःसोपानम् ।
आत्मात्मपाणावेकान्तदण्डः ॥

॥ गन्धर्वनगरम् ॥

नि श्वस्यां जगदा लिङ्ग्यामाकशम् ।
वृणुयामात्मानं व्योम्न ऊर्धद्वारा ।
स्कम्भनाध्वना प्र धेयामात्मानम् ।
गन्धर्वपुरमुदियां सूर्येण ।
सं शप्यां निवेशमकविरवेश्यः ॥

॥ अवतारः ॥

महती मर्वी दिवसमन्धमश्रमः कर्कस्त्वहार्यमर्थम् ।
चक्षुषि तमस्सर्वगं चक्रमभेद्यो मन्युररोध्यं दूत्यम् ।
रजसो योधा रजसि पुर्य अश्रुतं श्रव्यमभूतं भव्यम् ॥

Sep 24, 2011

॥ प्रबोधवर्त्म ॥

वीर्यमौनं मरुछादनेन सनातनदृष्टिगतिं तते ।
रूपनिशा कर्मपूर्णिमां प्र चञ्चलहेमज्यौत्स्नं शेते ॥
तदैकेनोभन्ताभ्यां सारेण निश्चितक्रमेण गच्छेत्प्रति ।
यौनालिङ्गने मुखमभिज्ञाय मुक्त्वात्मानमात्मानं विन्देत् ॥

॥ प्रथमाक्षम् ॥

यद्यत्पश्यसीक्षस्व सदात्मव्योम
गहनीयते यत्र रहस्योदयो
यथाक्षाक्षमुन्मेष्य
वि कासति कालपत्त्रैः
निर्वाणावर्तिपुष्पम्
स्मृतिमुद्रा च प्रत्येति
भावाद्यमृदम् ॥